Tuesday, June 30, 2020

NCERT solution class 8 sanskrit chapter 2 बिलस्य वाणी न कदापि मे श्रुता (अव्ययप्रयोग:)


Page No 9:

Question 2

एकपदेन उत्तरं लिखत-
(क) सिंहस्य नाम किम्‌?
(ख) गुहाया: स्वामी क: आसीत्‌?
(ग) सिंह: कस्मिन्‌ समये गुहाया: समीपे आगत:?
(घ) हस्तपादादिका: क्रिया: केषां न प्रवर्तन्ते?
(ङ) गुहा केन प्रतिध्वनिता?

Answer:

(क) खरनखर:।
(ख) दधिपुच्छ: शृगाल:।
(ग) सूर्यास्तसमये।
(घ) भयसन्त्रस्तमनसाम्
(ङ) सिंहस्य गर्जनेन

Question 3

मञ्जूषात: अव्ययपदं चित्वा वाक्यानि पूरयत-
सदा बहि: दूरं तावत्‌ तर्हि तदा
(क) यदा दशवादनं भवति ——————– छात्रा: विद्यालयं गच्छन्ति।
(ख) सूर्य: पूर्वदिशायां ——————– उदेति।
(ग) शृगाल: गुहाया: ——————– आसीत्‌।
(घ) स च यावत्‌ पश्यति, ——————– सिंहपदपद्धति: गुहायां प्रविष्टा दृश्यते।
(ङ) शृगालोऽपि तत: ——————– पलायमान: अपठत्‌।
(च) यदि सफलताम्‌ इच्छसि ——————– आलस्यं त्यज।

Answer:

(क) यदा दशवादनं भवति तदा छात्रा: विद्यालयं गच्छन्ति।
(ख) सूर्य: पूर्वदिशायां सदा उदेति।
(ग) शृगाल: गुहाया: बहि: आसीत्‌।
(घ) स च यावत्‌ पश्यति, तावत् सिंहपदपद्धति: गुहायां प्रविष्टा दृश्यते।
(ङ) शृगालोऽपि तत: दूरं पलायमान: अपठत्‌।
(च) यदि सफलताम्‌ इच्छसि तर्हि आलस्यं त्यज।

Page No 10:

Question 4

पूर्णवाक्येन उत्तरत-
(क) खरनखर: कुत्र प्रतिवसति स्म?
(ख) महतीं गुहां दृष्ट्वा सिंह: किम्‌ अचिन्तयत्‌?
(ग) शृगाल: किम्‌ अचिन्तयत्‌?
(घ) शृगाल: कुत्र पलायित:?
(ङ) किं विचार्य सिंह: शृगालस्य आह्वानमकरोत्‌?
(च) अस्यां कथायां कस्य चातुर्यं निरूपितं सिंहस्य शृगालस्य वा?

Answer:

(क) खरनखर: वने प्रतिवसति स्म।
(ख) महतीं गुहां दृष्ट्वा सिंह: अचिन्तयत – “नूनम् एतस्यां गुहायां रात्रौ कोऽपि जीव: आगच्छति। अत: अत्रैव निगूढ़ो भूत्वा तिष्ठामि।”
(ग) शृगाल: अचिन्तयत्‌ – “अहो विनष्टोऽस्मि। नूनम् अस्मिन् बिले सिंह: अस्तीति तर्कयामि। तत् किं करवाणि?”
(घ) शृगाल: गुहाया: दूरं पलायित:।
(ङ) सिंह: शृगालस्य आह्वानमकरोत्‌ यतोहि − मम् आह्वान श्रुत्वा स: बिले प्रविश्य मे भोज्यं भविष्यति।
(च) अस्यां कथायां शृगालस्य चातुर्यं निरूपितं यतोहि स स्वयुक्तिया सिंहस्य चाले विफलं अकरोत।

Question 5

मञ्जूषात: अव्ययपदानि चित्वा रिक्तस्थानानि पूरयत-
सहसा दूरे क्रमश: यदा तदा परन्तु यदि तर्हि
एकस्मिन्‌ वने कश्चन व्याध: जालं विस्तीर्य ——————– स्थित:। ——————– आकाशे सपरिवार: कपोतराज: चित्रग्रीव: निर्गत:। ——————– तण्डुलकणानामुपरि कपोतानां लोभो जात:। ——————– राजा तत्र सहमत: नासीत्‌। तस्य युक्ति: आसीत्‌ ——————– निर्जने वने कोऽपि मनुष्यो नास्ति ——————– कुतो वा तण्डुलकणानां सम्भव:? ——————– राज्ञ: उपदेशमस्वीकृत्य ते नीचै: आगता, ——————– जाले निपतिता:। अत: उक्तम्‌ ‘——————–
विदधीत न क्रियाम्‌’।

Answer:

एकस्मिन्‌ वने कश्चन व्याध: जालं विस्तीर्य दूरे स्थित:। क्रमश: आकाशे सपरिवार: कपोतराज: चित्रग्रीव: निर्गत:। तदा तण्डुलकणानामुपरि कपोतानां लोभो जात:। परन्तु राजा तत्र सहमत: नासीत्‌। तस्य युक्ति: आसीत्‌ यदि निर्जने वने कोऽपि मनुष्यो नास्ति तर्हि कुतो वा तण्डुलकणानां सम्भव:? यदा राज्ञ: उपदेशमस्वीकृत्य ते नीचै: आगता, तदा जाले निपतिता:। अत: उक्तम्‌ ‘ सहसा विदधीत न क्रियाम्‌’।

Page No 11:

Question 6

घटनाक्रमानुसारं वाक्यानि लिखत-
(क) गुहाया: स्वामी दधिपुच्छ: नाम शृगाल: समागच्छत्‌।
(ख) सिंह: एकां महतीं गुहाम्‌ अपश्यत्‌।
(ग) परिभ्रमन्‌ सिंह: क्षुधार्तो जात:।
(घ) दूरस्थ: शृगाल: रवं कर्त्तुमारब्ध:।
(ङ) सिंह: शृगालस्य आह्वानमकरोत्‌।
(च) दूरं पलायमान: शृगाल: श्लोकमपठत्‌।
(छ) गुहायां कोऽपि अस्ति इति शृगालस्य विचार:।

Answer:

एतानि उपयुक्त क्रम निम्न सन्ति:-
(क) परिभ्रमन्‌ सिंह: क्षुधार्तो जात:।
(ख) सिंह: एकां महतीं गुहाम्‌ अपश्यत्‌।
(ग) गुहाया: स्वामी दधिपुच्छ: नाम शृगाल: समागच्छत्‌।
(घ) गुहायां कोऽपि अस्ति इति शृगालस्य विचार:।
(ङ) दूरस्थ: शृगाल: रवं कर्त्तुमारब्ध:।
(च) सिंह: शृगालस्य आह्वानमकरोत्‌।
(छ) दूरं पलायमान: शृगाल: श्लोकमपठत्‌।

0 comments:

Post a Comment