Tuesday, June 30, 2020

NCERT solution class 7 sanskrit chapter 5 पण्डिता रमाबाइ

Page No 28:

Question 1:

एकपदेन उत्तरत-
(क) ‘पण्डिता’ ‘सरस्वती’ इति उपाधिभ्यां का विभूषिता?
(ख) रमा कुतः संस्कृतशिक्षां प्राप्तवती?
(ग) रमाबाई केन सह विवाहम् अकरोत्?
(घ) कासां शिक्षायै रमाबाई स्वकीयं जीवनम् अर्पितवती?
(ङ) रमाबाई उच्चशिक्षार्थं कुत्र आगच्छत्?

Answer:

(क) ‘पण्डिता’ ‘सरस्वती’ इति उपाधिभ्यां पंडिता रमाबाई विभूषिता।
(ख) रमा स्वमातुः संस्कृतशिक्षां प्राप्तवती।
(ग) रमाबाई विपिनबिहारीदासेन सह विवाहम् अकरोत्।
(घ) नारीणां शिक्षायै रमाबाई स्वकीयं जीवनम् अर्पितवती।
(ङ) रमाबाई उच्चशिक्षार्थं इंग्लैण्डदेशं आगच्छत्।

Question 2:

रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
(क) रमायाः पिता समाजस्य प्रतारणाम् असहत।
(ख) पत्युः मरणानन्तरं रमाबाई महाराष्ट्रं प्रत्यागच्छत्।
(ग) रमाबाई मुम्बईनगरे ‘शारदा-सदनम्’ अस्थापयत्।
(घ) 1922 तमे ख्रिष्टाब्दे रमाबाई-महोदयायाः निधनम् अभवत्।
(ङ) स्त्रियः शिक्षां लभन्ते स्म।

Answer:

(क) कस्या: पिता समाजस्य प्रतारणाम्‌ असहत?
(ख) कस्य मरणानन्तरं रमाबाई महाराष्ट्रं प्रत्यागच्छत्‌?
(ग) रमाबाई कुत्र ‘शारदा-सदनम्‌’ अस्थापयत्‌?
(घ) 1922 तमे ख्रिष्टाब्दे कस्या: निधनम्‌ अभवत्‌?
(ङ) कस्मै शिक्षां लभन्ते स्म?

Question 3:

प्रश्नानामुत्तराणि लिखत-
(क) रमाबाई किमर्थम् आन्दोलनं प्रारब्धवती?
(ख) निःसहायाः स्त्रियः आश्रमे किं किं लभन्ते स्म?
(ग) कस्मिन् विषये रमाबाई-महोदयायाः योगदानम् अस्ति?
(घ) केन रचनाद्वयेन रमाबाई प्रशंसिता वर्तते?

Answer:

(क) रमाबाई स्त्रीणां कृते वेदादीनां शास्त्राणां शिक्षायै आन्दोलनं प्रारब्धवती।
(ख) निःसहायाः स्त्रियः आश्रमे मुद्रण-टंकण-काष्ठकलादीनाञ्च लभन्ते स्म।
(ग) समाजसेवायाः अतिरिक्तं लेखनक्षेत्रे अपि रमाबाई-महोदयायाः योगदानम् अस्ति।
(घ) ‘स्त्रीधर्मनीति’, ‘हाई कास्ट हिन्दू विमेन’ इति रचनाद्वयेन रमाबाई प्रशंसिता वर्तते।

Page No 29:

Question 4:

अधोलिखितानां पदानां निर्देशानुसारं पदपरिचय लिखत-
पदानिमूलशब्दःलिङ्गम्विभक्तिःवचनम्
यथा- वेदानाम्वेदपुँल्लिङ्गम्षष्ठीबहुवचनम्
पिता…………….………………………………………
शिक्षायै……………………………………………………
कन्याः……………………………………………………
नारीणाम्……………………………………………………
मनोरमया……………………………………………………

Answer:

पदानि
मूलशब्द:
लिङ्गम्
विभक्ति:
वचनम्‌
यथा-वेदानाम्‌
वेद
पुँल्लिङ्गम्
षष्ठी
बहुवचनम्‌
पिता
पितृ
पुँल्लिङ्गम्
प्रथमा
एकवचनम्
शिक्षायै
शिक्षा
स्त्रीलिङ्गम्
चतुर्थी
एकवचनम्
कन्या:
कन्या
स्त्रीलिङ्गम्
प्रथमा
बहुवचनम्‌
नारीणाम्
नारी
स्त्रीलिङ्गम्
षष्ठी
बहुवचनम्‌
मनोरमया
मनोरमा
स्त्रीलिङ्गम्
तृतीया
एकवचनम्

Question 5:

अधोलिखितानां धातूनां लकारं पुरुषं वचनञ्च लिखत-
 धातुःलकार:पुरुष:वचनम्
यथा- आसीत्अस्लङ्प्रथमपुरुषःएकवचनम्
कुर्वन्ति…………….………………………………………
आगच्छत्……………………………………………………
निवसन्ति……………………………………………………
गमिष्यति……………………………………………………
अकरोत्……………………………………………………

Answer:

 
धातु:
लकार:
पुरुष:
वचनम्‌
यथा-आसीत्‌
अस्‌
लङ्
प्रथमपुरुष:
एकवचनम्‌
कुर्वन्ति
कृ’
लट्
प्रथमपुरुष:
बहुवचनम्‌
आगच्छत्‌
गम्’
लङ्
प्रथमपुरुष:
एकवचनम्‌
निवसन्ति
नि’ उपसर्ग ‘वस’ धातु
लट्
प्रथमपुरुष:
बहुवचनम्‌
गमिष्यति
गम्’
लृट
प्रथमपुरुष:
एकवचनम्‌
अकरोत्‌
कृ’
लङ्
प्रथमपुरुष:
एकवचनम्‌

Question 6:

अधोलिखितानि वाक्यानि घटनाक्रमानुसारं लिखत-
(क) रमाबाई-महोदयायाः विपिनबिहारीदासेन सह विवाहः अभवत्।
(ख) 1858 तमे ख्रिष्टाब्दे रमाबाई जन्म अलभत।
(ग) सा उच्चाशिक्षार्थम् इंग्लैण्डदेशं गतवती।
(घ) 1922 तमे ख्रिष्टाब्दे रमाबाई-महोदयायाः निधनम् अभवत्।
(ङ) सा मुम्बईनगरे शारदा-सदनम् अस्थापयत्।
(च) सा स्वमातुः संस्कृतशिक्षां प्राप्तवती।

Answer:

(क) 1858 तमे ख्रिष्टाब्दे रमाबाई जन्म अलभत।
(ख) सा स्वमातुः संस्कृतशिक्षां प्राप्तवती।
(ग) रमाबाई-महोदयायाः विपिनबिहारीदासेन सह विवाहः अभवत्।
(घ) सा उच्चाशिक्षार्थम् इंग्लैण्डदेशं गतवती।
(ङ) सा मुम्बईनगरे शारदा-सदनम् अस्थापयत्।
(च) 1922 तमे ख्रिष्टाब्दे रमाबाई-महोदयायाः निधनम् अभवत्।

0 comments:

Post a Comment